संस्कृतवाक्याभ्यास ।।

कार्यालयम् आगतवान् अस्मि।
= कार्यालय में आया हूँ।

बीमासेवा आवश्यकी सेवा अस्ति।
= बीमासेवा आवश्यक सेवा है।

अतएव कार्यालयम् आगच्छम् अहम्। 
= इसलिये मैं कार्यालय आया हूँ।

मार्गे पुलिसरक्षकाः अवरोधितवन्तः।
= मार्ग में पुलिस ने रोका।

ते मम नाम पृष्टवन्तः।
= उन्होंने मेरा नाम पूछा।

मम बहिर्गमनस्य कारणं पृष्टवन्तः।
= मेरे बाहर बाहर जाने का कारण पूछा।

अहं मम परिचयपत्रं दर्शितवान्।
= मैंने मेरा परिचयपत्र दिखाया।

ते मह्यम् अनुमतिं दत्तवन्तः।
= उन्होंने मुझे अनुमति दी।

कार्यालये कार्यम् अस्ति वा ? 
= ऑफिस में काम है क्या ?

आम् अस्ति।
= हाँ है।

दूरवाण्या जनाः यद् कार्यं वदन्ति तद् कार्यं करोमि।
= फोन से लोग जो काम बोल रहे हैं वो काम कर रहा हूँ।

भवन्तः / भवत्यः बहिः मा गच्छन्तु।
= आप सभी बाहर मत निकलिये।

गृहे एव भवन्तु। 
= घर में ही रहिये।

सरलानि वाक्यानि प्रतिदिनं वदन्तु
**सरल वाक्य प्रतिदिन बोलें

0 comments:

Post a Comment

We love hearing from our Readers! Please keep comments respectful and on-topic.